|
|
- नाद्यापि पश्यति कदापि निदर्शनाय
- चित्ते तथोपनिषदां सुदृशां सहस्रम्।
- स त्वं चिरान्नयनयोरनयोः पदव्यां
- स्वामिन कया नु कृपया मम सन्निधत्से।।94।।[1]
अन्वयः – भो स्वामिन् ! सुदृशां सहस्रं तथा उपनिषदाम् (सहस्रम्) कदापि चित्ते निदर्शनाय न अद्यापि पश्यति, स त्वं मम अनयोः नयनयोः पदवीं कया कृपया नु (प्रश्ने) सन्निधत्से?।।94।।
अनुवाद- ह स्वामिन् ! सहस्र-सहस्र सुनयनायें और उपनिषद्गण तुम्हारी इस माधुर्यमयी मूर्ति का निदर्शनमात्र भी (सादृश्य मात्र) कभी चित्त में नहीं देख पाईं, वही तुम किस कृपा के बल पर मेरे नयनों के आगे ओय?।।94।।
कृष्णवल्लभा
सम्प्रति विस्मयगर्वहर्षातिरेक- पूर्वकं स्वस्य श्रीकृष्णकृपातिशय- परमकाष्ठापात्रत्वमाह- नाद्यापीति। भोः स्वामिन् सर्वोत्तम स त्वं विशुद्धपूर्णमधुररसमूर्तिः कया नु कृपया ममानयोर्नयनोः पदव्यां चिरं चिरकालं सन्निधत्से सन्निहितो भवसि। नैतत् तर्कयितुं शक्नोमि। तथेति कृपया। अनिरूप्यतां दर्शयति – यत्त्वां सुदृशां शोभनज्ञानानामुपनिषदां वेदरहस्य- भागानां सहस्रमद्यापि कदापि चकितमपि चित्ते निदर्शनाय दृष्ठान्ताय हेतवे न पश्यति। यादृशं तव स्वरूपं तथा नानुभवतीत्यर्थः। मम तु नयनपदवीं यातोऽसि, अहो ते कृपामहिमा।
- “उपनीय तमात्मानं ब्रह्मापास्तद्वयं यतः।
- हिनस्त्यविद्यां तज्जञ्च तस्मादुपनिषन्मता।।”इति।।94।।
सुबोधनी
ततः समीपमागतं वीक्ष्य दृग्दुर्लभस्त्वं कथं मद्दुष्टिगोचरोसीति तमेव पृच्छेति- हे स्वामिन्, स प्राङ्निर्दिष्टोऽसमानोर्ध्वस्त्वं ममानयोः प्राकृतविषयिनोर्नयनयोः पदव्यां कया कृपया, नु प्रश्ने, संनिधत्से। तामहं न जाने, त्वमेव कथयेत्यर्थः। प्राग्वत्ते स्फूर्तिरिवयम्, न,- चिराच्चिरकालं व्याप्य। न साचिरकालव्यापिनी। नन्वक्षिसंनिकृष्टे किं दौर्लभ्यम्- सुष्ठु दृग् व्रजसुन्दरीणामिव दृष्टिर्यासां तासामुपनिष- द्देवीनामपि सहस्रं कदापि कस्मिंश्चदवसरेऽपि चित्तेऽपि निर्दशनाय त्वत्सादृश्यदर्श- नायाद्यापि न पश्यति। अतोऽस्मद्- दृग्गोचरस्त्वं केवलकृपयैव।।94।।
|
|