|
|
- गलद्व्रीडा लोला मदनविनता गोपवनिता
- मदस्फीतं वीतं किमपि मधुरा चापलधुरा।
- समुज्जृम्भा गुम्फा मधुरिमकिरां मादृशगिरां
- त्वयि स्थाने याते दधति चपलं जन्मसफलम्।।101।।[1]
अन्वयः– गलद्व्रीडा लोला मदनविनता गोपवनिता वीतं मदस्फीतं किमपि मधुरा चापलधुरा (तथा) मधुरिमकिरां मादृशगिरां समुज्जृम्भा गुम्फा त्वयि स्थाने याते चपलं जन्म सफलं दधति।।101।।
अनुवाद- विगलित- लज्जा, चञ्चला, तुम्हारे प्रेम में नम्रीभूता गोपवधुए तारुण्यस्फीत (तारुण्य की सीमा) तुम्हें प्राप्त कर सफलजीवन हो गई हैं और माधुर्य आदि कवित्वगुणों से युक्त मेरे वाक्य भी आज तुम्हारा आश्रय लेकर गुम्फित हो जाने से मेरा नश्वरजीवन सफल हो गया है।।101।।
कृष्णवल्लभा
सम्प्रति परममहानन्दसुधारसाभिवर्षिणः श्रीकृष्णादेव सर्वप्राकट्यसफलतां वर्णयन्नाह- गलद्व्रीडेति हे कृष्ण त्वपि याते प्राप्ते सति चपलं त्वरितमेव जन्म प्राकट्यं सफलं दधति धारयन्ति। सत्त्वरं चपलं तूर्णमित्यमरः[2]। त्वत्प्राप्त्यनन्तरमेव परमानन्दप्राप्त्या साफल्यं स्यादित्यर्थः। तत् स्थाने युक्तम्, स्थान इत्यव्ययम्। स्थाने क्रीडास्थाने वृन्दावनादाविति वा। ये प्राकट्यस्य साफल्यं दधति ते क इत्याह- गोपवनिताः। गोप्यः कीदृश्यः- गलद्ब्रीडाः। गलन्ती व्रीडा लज्जा याभ्यः। अतएव लोलाश्चञ्चलाः सतृष्णा वा। वदनविनता मदनेन कामेन विनता विशेषेण नम्राः। मदनोऽपि विनतो याभ्य इति वा। मदस्फीतं मदेन स्मरभावेन स्फीतं समृद्धम्। वीतं विविधं विशिष्टं वा, इतम् इतस्ततः श्रीकृष्णसंगमार्थ गमनम्। ज्ञानं वा महारसोल्यासयुतदृग्वागंग चेष्टितविशेषाणाम्। यद्वा, वीतं वीनां श्रीवृन्दावन- पक्षिणामितं गतं मदेन हर्षेण स्फीतम्। किमप्यत्याश्चर्यरूपा मधुरा चापलधुरा स्मरचापल्यभारः। यद्वा, मधुरा मथुरा। मादृशस्य तत्परिवारस्य गिरा गुम्फा रचनाः समुज्जृम्भाः। सम्यगुज्जृम्भणमुल्लासो यासां तासां गिराम्। कीदृशाम्- मधुरिमकिराम्। मधुरिमाणं किरन्ति वर्षन्ति या गिरः सदैकपदे रसविशेषोल्ला-सिन्यस्तासाम्। त्वयि स्थाने श्रीवृन्दावन- निकुञ्जपुञ्जरूपे प्राप्ते सति गोपीगतिचापल्यवाग्- गुम्फनादीनि प्राकट्यं सफलं दधतीति समुदायार्थः।।101।।
|
|