जनमेजय उवाच
भूय एव द्विजश्रेष्ठ यदुसिंहस्य धीमत: ।
कर्माण्यपरिमेयाणि श्रोतुमिच्छामि तत्त्वत:।।1।।
श्रूयन्ते विविधानि स्म अद्भुतानि महाद्युते:।
असंख्येयानि दिव्यानि प्रकतान्यपि सर्वश:।।2।।
यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने।
प्रब्रूया: सर्वशस्तात तानि मे श्रृण्वतोऽनघ ।।3।।
वैशम्पायन उवाच
बहून्याश्चर्यभूतानि केशवस्य महात्मन:।
कथितानि महाबाहो नान्तं शक्यं हि कर्मणाम्।।4।।
गन्तु हि भरतश्रेष्ठ विस्तरेण समन्तत:।
अवश्यं हि मया वाच्यं लेशमात्रेण भारत।।5।।