वैशम्पायन उवाच
दमिते सर्पराजे तु कृष्णेन यमुनाह्रदे।
तमेव चरतुर्देशं सहितौ रामकेशवौ।।1।
आजग्मतुस्तौ सहितौ गोधनै: सह गामिनौ।
गिरिं गोवर्धनं रम्यं वसुदेवसुतावुभौ।।2।।
गोवर्धनस्योत्तरतो यमुनातीरमाश्रितम्।
ददृशाते च तौ वीरौ रम्यं तालवनं महत्।।3।।
तौ तालपर्णप्रतते रम्ये तालवने रतौ।
चेरतु: परमप्रीतौ वृषपोताविवोद्धतौ ।।4।।
स तु देश: सदा स्न्निग्धो लोष्टापाषाणवर्जित:।
दर्भप्रायस्थलीभूत: सुमहान् कृष्णमृत्तिक:।।5।।