वैशम्पायन उवाच
कस्यचित त्वथ कालस्य सभ्यांस्तान यदुसंसदि।
बभाषे पुण्डतरीकाक्षो हेतुमद्वाक्यमुत्तमम्।।1।।
यादवानामियं भूमिर्मथुरा राष्ट्रेमालिनी।
वयं चैवेह सम्भूता व्रजे च परिवर्द्धिता:।।2।।
तदिदानीं गतं दु:खं शत्रवश्च पराजिता:।
नृपेषु जनितं वैरं जरासंधेन विग्रह:।।3।।
वाहनानि च न: सन्ति पादातं चाप्यनन्तकम्।
रत्नानि च विचित्राणि मित्राणि च बहूनि च।।4।।
इयं च माथुरी भूमिरल्पा गम्या परस्य तु।
वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा।।5।।